Sanskrit Notes In Hindi For UPTET
जो उम्मीदवार संस्कृत विषय से UPTET की परीक्षा की तैयारी कर रहे है .उन्हें अपनी तैयारी संस्कृत प्रैक्टिस सेट ,संस्कृत मॉडल पेपर ,Sanskrit Solved Paper ,संस्कृत टेस्ट पेपर से तैयारी करनी चाहिए . इससे उम्मीदवार की तैयारी भी अच्छे से हो जाती है और उन्हें अंदाजा भी हो जाता है की UPTET परीक्षा किस तरह के प्रश्न आते है .इसलिए आज हमने इस पोस्ट में संस्कृत से सम्बंधित अति महत्वपूर्ण नोट्स Sanskrit Notes PDF In Hindi Free Download PDF,Uptet Sanskrit Notes Pdf से संबंधित महत्वपूर्ण प्रश्न उत्तर एक मॉक टेस्ट के रूप में दिए है .यह प्रश्न पहले भी UPTET की परीक्षा में आ चुके है .इन्हें आप ध्यान से पढ़े ,यह आपके लिए फायदेमंद होंगे
भाषा-I: संस्कृत
सूचना : अधोलिखितं श्लोकान पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
अश्वानां लक्षणं वेगो गजानां लक्षणं मदः।
चातुर्थ लक्षणं स्त्रीणाम् उद्योगों लक्षणं नृणाम् ।।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।।
क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति।
अतृणे पतितो वह्नि स्वयमेवोपशाम्यति।।
अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम्।
भोजने चामृतं वारि भोजनान्ते विषप्रदम्।।
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ।।
विकृतिं नैव गच्छन्ति संगदोषेण साधवः।
आवेष्टितं महासः चन्दनं न विषायते ।।
[su_note]1. ‘आपः’ पदस्य पर्यायो भवति ।[/su_note]
◉ घटः
◉ पटः
◉ जनम्
◉ सरः
[su_spoiler title=”Answer”] जनम्[/su_spoiler]
[su_note]2. संगदोषेण विकारः कुत्र न भवतिः?[/su_note]
◉ पुष्पेषु
◉ फलेषु
◉ साधुषु
◉ पत्रेषु
[su_spoiler title=”Answer”] साधुषु [/su_spoiler]
[su_note]3. भोजनान्ते किं विषप्रदम्?[/su_note]
◉ वारि
◉ फलम्
◉ पयः
◉ मिष्टान्नम्
[su_spoiler title=”Answer”] वारि [/su_spoiler]
[su_note]4. तृतीये श्लोके ‘अग्निः’ इति पदस्य स्थाने कः शब्दः प्रयुक्त?[/su_note]
◉ वस्त्रम्
◉ वह्निः
◉ शिरस्त्राणम्
◉ काष्ठम्
[su_spoiler title=”Answer”] वह्निः [/su_spoiler]
[su_note]5. प्रीतेः लक्षणं कतिविधम्?[/su_note]
◉ षविधम्
◉ दशविधम्
◉ द्विविधम्
◉ चतुर्विधम्
[su_spoiler title=”Answer”] षविधम्[/su_spoiler]
[su_note]
6. उद्योगः केषां लक्षणम्?
[/su_note]
◉ अश्वानाम्
◉ गजानाम्
◉ अजानाम्
◉ नृणाम्
[su_spoiler title=”Answer”] [/su_spoiler]
[su_note]सूचना : अधोलिखितं श्लोकान पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
7. प्रारम्भिकस्तरे पठनं शिक्षयितुम् अधस्तनेषु कस्य उपादयता अधिका भवति?[/su_note]
◉ पुस्तकानाम्
◉ प्रकृतवस्तूनाम् (Realia)
◉ बोधपट्टानाम् (Flashcards)
◉ द्विपायरेखाचित्राणाम् (Flip Charts)
[su_spoiler title=”Answer”] बोधपट्टानाम् (Flashcards) [/su_spoiler]
[su_note]
8. बालानां पत्रिकातः कस्याश्चित् कथायाः पठनं नाम
[/su_note]
◉ सिंहवलोकनम् (Skimming)
◉ सूक्ष्मावलोकनम् (Scanning)
◉ गहनाध्ययनम् (Intensive Reading)
◉ विस्तृताध्यनम् (Extensive Reading)
[su_spoiler title=”Answer”] विस्तृताध्यनम् (Extensive Reading)[/su_spoiler]
[su_note]
9. शिक्षिका स्वकक्षायाः बालान् युगलेषु विभजति। तान् युगलान् स्वस्वपुस्तिकानां विनिमयं कृत्वा निर्देशानुसार संशोधनं कर्तुं सूचयति। एवं सा किं कर्तुम् इच्छति?
[/su_note]
◉ समकक्षीयमूल्याङ्कनम् (Peer Assessment)
◉ सामूहिकमूल्याङ्कनम् (Group Assessment)
◉ संशोधनम् (Correction)
◉ स्वयं मूल्याङ्कनम् (Self-Assessment
[su_spoiler title=”Answer”] समकक्षीयमूल्याङ्कनम् (Peer Assessment) [/su_spoiler]
[su_note]
10. उत्पादककौशलम् अस्ति
[/su_note]
◉ सम्भाषणं लेखनं च
◉ श्रवणं पठनं च
◉ पठनं लेखनं च
◉ श्रवणं सम्भाषणं च
[su_spoiler title=”Answer”] सम्भाषणं लेखनं च [/su_spoiler]
[su_note]
11. पठनसमये अधस्तनेषु कस्य महत्त्वं सवाधिकम्?
[/su_note]
◉ उच्चस्वरेण पठनम्
◉ पाठस्य अर्थस्य अवगमनम्
◉ पाठस्य प्रत्येके शब्दस्य पठनम्
◉ धाराप्रवाहेण पठनम्
[su_spoiler title=”Answer”] पाठस्य अर्थस्य अवगमनम् [/su_spoiler]
[su_note]
12. अधोलिखितेषु कस्मिन् कार्ये सूक्ष्मपेशीयकौशलस्य (Fine Motor Skill) आवश्यकता अस्ति?
[/su_note]
◉ आरोहणे
◉ लेखने
◉ कूर्दने
◉ पठने
[su_spoiler title=”Answer”] लेखने [/su_spoiler]
[su_note]
13. बालानां पठनस्य लेखनस्य च विकासाय आद्यं चरणं किम् अस्ति?
[/su_note]
◉ नवसाक्षरता (Neo-Literacy)
◉ प्राक्साक्षरता (Pre-Literacy)
◉ साक्षरता (Literacy)
◉ उद्गामी साक्षरता (Emergent)
[su_spoiler title=”Answer”] उद्गामी साक्षरता (Emergent) [/su_spoiler]
[su_note]
14. प्राथमिकस्तरे कवितायाः प्रयोजनम् अस्ति
[/su_note]
◉ विभिन्नभाषाकौशलानामुपरि अधिकारप्राप्तिः
◉ प्राथमिकच्छात्रेभ्यः अलङ्कारपाठनम्
◉ शब्दावलीज्ञाने विस्तारः
◉ कवितायाः सङ्गीतस्य तालस्य अनुप्रासस्य च आनन्दानुभूतिः
[su_spoiler title=”Answer”] कवितायाः सङ्गीतस्य तालस्य अनुप्रासस्य च आनन्दानुभूतिः [/su_spoiler]
[su_note]
15. शिक्षिका केनापि शब्देन बिना छात्रैः सह सम्प्रेषणं करोति। एवं सा उपयोगं करोति
[/su_note]
◉ शाब्दिकसम्प्रेषणस्य
◉ शब्देतरसम्प्रेषणस्य
◉ मौखिकसम्प्रेषणगस्य
◉ लिखितसम्प्रेषणस्य
[su_spoiler title=”Answer”] शब्देतरसम्प्रेषणस्य [/su_spoiler]
[su_note]
16. सिंहस्य विषये एकां कथां पठित्वा शिक्षिका छात्रान् निर्दिशति- ”भवान् स्वयम् अरण्ये सिंहः अस्ति इति मनसि विचार्य कथां श्रावयतु” इति। एवं सा किं विकसितुं प्रयत्नं करोति?
[/su_note]
◉ रूपान्तरणम् अनुवादञ्च
◉ सर्जनात्मकतां चिन्तनक्षमताञ्च
◉ पठनकौशलं लेखनकौशलञ्च
◉ प्रारूपलेखनं पुनर्लेखनञ्च
[su_spoiler title=”Answer”] सर्जनात्मकतां चिन्तनक्षमताञ्च [/su_spoiler]
[su_note]
17. मूल्याङ्कनसमये अधोलिखितेषु कस्मिन् विषये शिक्षकस्य ध्यानं स्यात्?
[/su_note]
◉ धाराप्रवाहीवक्तृभिः सह तस्य छात्रस्य विकासस्य तुलना
◉ सर्जनात्मकलेखकैः सह तस्य छात्रस्य विकासस्य तुलना
◉ एकस्य छात्रस्य विकासस्य अन्यच्छात्राणां विकासैः सह तुलना
◉ एकस्य छात्रस्य विकासस्य तस्य पूर्वस्थित्या सह तुलना
[su_spoiler title=”Answer”] एकस्य छात्रस्य विकासस्य तस्य पूर्वस्थित्या सह तुलना [/su_spoiler]
[su_note]
18. तृतीयकक्षायाः शिक्षिका प्रत्येक शब्दस्य शुद्धोच्चारणे ध्यानं ददाति। एवं सा किं विकसितुम् इच्छति?
[/su_note]
◉ अर्थबोधम् (Comprehension)
◉ संसक्तिः (Cohesion)
◉ शुद्धताम् (Accuracy)
◉ धाराप्रवाहिताम् (Fluency)
[su_spoiler title=”Answer”] शुद्धताम् (Accuracy) [/su_spoiler]
[su_note]
19. भाषाधिगमाधिग्रहणयोः (Language Learning And Acquisition) मध्ये कः भेदः?
[/su_note]
◉ उभये अधिगमाधिग्रहणे साहजिके
◉ उभये अधिगमाधिग्रहणे प्रयासजन्ये
◉ अधिगमः प्रयासजन्यः अधिग्रहणं साहजिकम्
◉ अधिग्रहणं प्रयासजन्यम अधिगमः साहजिकः
[su_spoiler title=”Answer”] अधिगमः प्रयासजन्यः अधिग्रहणं साहजिकम् [/su_spoiler]
[su_note]
20. विद्यालयशिक्षणे प्रथमभषाध्ययनं स्यात्
[/su_note]
◉ मातृभाषायाः अथवा प्रान्तीयभाषायाः
◉ हिन्दीभाषयाः
◉ राजकीयभाषायाः
◉ सहराजकीयभाषायाः
[su_spoiler title=”Answer”] मातृभाषायाः अथवा प्रान्तीयभाषायाः[/su_spoiler]
[su_note]
21. प्रतिपुष्टिः (Feedback) अस्ति
[/su_note]
◉ उभयशिक्षकशिक्षार्थिनां कृते स्वस्वविकासाय
◉ मातृणां पितृणां कृते तेषां बालानां गृहकार्यकरणाय परीक्षाप्रस्तुत्यर्थं च
◉ शिक्षार्थिनां कृते अधिगमविकासाय
◉ शिक्षकाणां कृते अध्यापनविकासाय
[su_spoiler title=”Answer”] उभयशिक्षकशिक्षार्थिनां कृते स्वस्वविकासाय [/su_spoiler]
[su_note]सूचना : अधोलिखितं श्लोकान पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम उत्तरं चित्वा लिखत।
पुराएकस्मिन् स्थाने द्वे नायौँ वसतः स्म। तयोः परस्पं महती प्रीतिः।
कालतरे तयोः मध्ये एकस्य पुत्रस्य विषये महान् कलहः अजायत।
सरला- अयं मम पुत्र इति सक्रोधम् उद्घोषयति। विमला- न अयं तव,
अपितु अयं मम पुत्रः इति तारस्वरेण प्रतिवदति। इत्थं च क्रमेण तयोः कलहः चरमावस्थां गतः
अथ विवादे पराकाष्ठं गते द्वे अपि न्यायालयं गतवस्यौ। तयोः
वक्कीलौ स्व-स्वपक्षं न्यायाधीशस्य समक्षं सप्रमाणं प्रस्तुतवन्तौ।
न्यायाधीशः उभयमपि पक्षं समम् अश्रुतपूर्वकं च ज्ञात्वा किंकर्तव्यविमूढः सञ्जातः। सः प्रारम्भे अकथयत्- सर्वप्रथमम् अयं बालकः कया सह अधिकां प्रसन्नताम् अनुभवति इति ज्ञातव्यम्। सः तु उभाभ्यां सह प्रसन्नः दृश्यते इति ज्ञात्वा न्यायाधीशः निर्णतुं न समर्थः अभवत् अयं वस्तुतः कस्याः पुत्रः।
अधिकं सूक्ष्मं विचिन्त्य न्यायाधीशः अवदत् यत् मया उभयः पक्षः श्रुतः। साम्प्रतं निर्णयं सावधानतया शृण्वन्तु। बालकं प्रति भवत्योः समाना स्नेहमयी च प्रीतिः। अतः इमं बालकं विभज्य अर्धम् अर्धं स्वीकुरुताम् । इमं निर्णयं श्रुत्वा विकला प्रसन्ना अभवत् । सरला तु मूर्छिता सती तत्क्षणमेव भूमौ अपतत् । सा नानाविधैः उपचारैः अर्धघण्टानन्तरं चेतनां लब्धवती। ततः च सा करौ प्रसार्य बहुविह्वला, अश्रुधाराभिः रुदती न्यायाधीशं प्रार्थयत् – मान्याः! मोहनस्य रोमांशच्छेदनमपि मम प्राणच्छेदनमसमम् अति दुःखकरं भविष्यति। भवन्तम् अस्य बालकस्य अहं जीवनं याचे। दीयताम् इमं बालकं विमलायै, यस्यै कस्यै वा इत्यत्र न मदीयः कोऽपि दुराग्रहः, किन्तु येन बालकः अयं, स्वस्थः, सुखी चिरायुः च भवेत् तथैव भवद्भिः कर्तव्यम्।। क्षणेन मौनं त्यक्त्वा न्यायाधीशः स्वनिर्णयम् अघोषयत्- वस्तुतः सरलायाः ममत्वं स्वाभाविकं, तस्याः मूर्छा च नैसर्गिकी, अतः सरलैव मोहनस्य माता इत्येव अस्य वादस्य निर्णयः। विमलायाः पक्ष न विचारयोग्यः। एवं न्यायाधीशस्य बुद्धिवैभवेन सरला स्वपुत्रं पुनः प्राप्य बहुप्रसन्ना अभवत् ।
22. अनुच्छेदेऽस्मिन् ‘दीर्घायुः’ इति पदस्य कृते किं पदं प्रयुक्तम् ?[/su_note]
◉ चिरायुः
◉ गोमायुः
◉ अल्पायुः
◉ वृक्षायुः
[su_spoiler title=”Answer”] चिरायुः[/su_spoiler]
[su_note]
23. बहुप्रसन्ना’ इति पदस्य विलोमपदं भवति
[/su_note]
◉ बहुभोजी
◉ बहुदुःखी
◉ बहुभाषिणी
◉ बहुसुखी
[su_spoiler title=”Answer”] बहुदुःखी[/su_spoiler]
[su_note]
24. न्यायाधीशस्य निर्णयेन सरला कस्य वास्तविकी माता?
[/su_note]
◉ सुकर्णस्य
◉ सुयोधनस्य
◉ मोहनस्य
◉ द्वारपालस्य
[su_spoiler title=”Answer”] मोहनस्य[/su_spoiler]
[su_note]
25. “बालकं विभज्य अर्धम् अर्धं स्वीकुरुताम् ” इति कः अवदत् ?
[/su_note]
◉ सरला
◉ द्वारपालः
◉ न्यायालधीश
◉ विमला
[su_spoiler title=”Answer”] न्यायालधीश [/su_spoiler]
[su_note]
26. सरलाविमलयोः मध्ये कस्मिन् विषये कलहः अजायत?
[/su_note]
◉ पुत्रविषये
◉ चित्रविषये
◉ वस्त्रविषये
◉ रोटिकाविषये
[su_spoiler title=”Answer”] पुत्रविषये [/su_spoiler]
[su_note]
27. ‘नारी’ इति पदस्य पर्यायो भवति
[/su_note]
◉ पनसः
◉ जम्बुकः
◉ पुरुषः
◉ महिला
[su_spoiler title=”Answer”] महिला[/su_spoiler]
[su_note]
28. विवादस्य निर्णयाय ते कुत्र गतवत्यौ?
[/su_note]
◉ स्वभवनम्
◉ नदीतीरम्
◉ आपणम्
◉ यायालयम्
[su_spoiler title=”Answer”] यायालयम् [/su_spoiler]
[su_note]
29. गद्यांशेऽस्मिन् ‘उच्चस्वरेण’ इति पदस्य कृते कः शब्दः प्रयुक्तः?
[/su_note]
◉ तारस्वरेण
◉ मन्दस्वरेण
◉ चौरेण
◉ सन्यासिना
[su_spoiler title=”Answer”] तारस्वरेण [/su_spoiler]
[su_note]
30. “अहम् अस्य बालकस्य जीवनं याचे” इति का अवदत्?
[/su_note]
◉ कपोतः
◉ काकः
◉ न्यायाधीशः
◉ सरला
[su_spoiler title=”Answer”] सरला[/su_spoiler]
[su_note]भाषा- II: संस्कृत
सूचना :अधोलिखितं गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
एकस्मिन्नगरे धनधान्यसम्पन्न आसीत् एकः कृषीबलः। तस्य प्राङ्गणे सुपुष्टा बहुदुग्धदा कपिला नाम धेनुः बद्धा आसीत्। एकदा विभावर्यां सा धेनुः केनापि चौरेण हृता। अथ स कर्षकः अन्यां धेनुं क्रेतुं हट्टदिवसे सुदूरवर्ति किमपि नगर अगच्छत्। तत्र तु विक्रयार्थमानीतासु धेनुषु स्वकीया धेनुः अनेन दृष्टैवाभिज्ञाता। ततः सपदि एवं धेनोः समीपं गत्वा उच्चैः अभाषत-भोः जनाः मदीया इयं धेनुः अत्र तिष्ठति। चत्वारि दिनान्यतीतानि मम गृहात् अस्याः मुषितायाः।
ततः तस्याः धेनोः मिथ्यास्वामी सः पाटच्चरः दाक्षिण्यगर्भया वाण्या अब्रवीत्- ‘‘भद्रमुख, मोमापादिता ते दृष्टिः। इदानीं संवत्सराप्यधिंक कालम् एषा धेनुः तत्सकाशे वर्तते। कदाचित् आकारसद्दशेन त्वदीयधेनोः अनुकुर्यात्। परं मदीया एव इयं गौरित्यत्र नास्ति संदेहः” इति।।
एतदाकर्त्य सः कृषीवलः सत्वंर तस्याः धेन्वाः अक्षिणी पाणिभ्यां पिधाय तं मिथ्यास्वामिनमभाषत- “यदि इयतः दिवसान् धेनुरियं तव गृहे तिष्ठति तर्हि त्वया परीक्षिता स्यात्। तत् वद कतरेण नेत्रेण काणा इयम? इति। अपि च केन नाम्रा आहूता सा सत्वरमागच्छति?” इति। अपि च केन नाम्रा आहूता सा सत्वरमागच्छति?” इति। स अपि प्रत्यग्रमुषितायास्तस्या धेनोः अवयवविशेषान् नावगच्छति। सम्भ्रान्तः सः किमपि वक्तव्यमित्यतः “वामेन लोचनेन काणा” इति अगदत्।
कृषिबलः तं वच्ञयितुं पुनः प्राह, “सखे, सम्यक् विमृश्य एव वद” इति। ततः अधिकमेव सम्मोहितः सः स्तेनः प्रत्यवदत्- “आं, विस्मृतं खलु मया। न वामेन परं दक्षिणेन एव नेत्रेण काणा ममैषा धेनुः। मया प्रमादात् प्रथमं विपरीतमेवाभिहितम्। वस्तुतः तु दक्षिणम् एव अस्याः चक्षुः विकलम्” इति। ।
तदनन्तरं सः स्वामी धेनुनयनाभ्यां पाणी अपनीय प्रोच्चैः अगर्जत्, पश्यत भोः जनाः पश्यत। अयं पुरुषः चौर्यनिपुणः अनृतवादी च इति सिद्धम् एव इदानीम्। मम धुनेः केनापि नयनेन न काणा। केवलं दुरात्मनः अस्य चौर्यशीलं मिथ्यावादं च व्यक्तीकर्तुं मया अयं प्रश्नः कृतः। भवन्तः अधुना पश्यन्तु” इति।
“अयि कपिले, आगच्छ, आगच्छ” इति तेन परमस्रेहेनाहूता सा गले रज्जुबद्धपि तं कृषीवलं प्रति आगन्तुं प्रायतत। सर्वे समीपवर्तितः जनाः “सम्यक् गृहीतः चौरः’ इति निनादमकुर्वन। स तस्करोऽपि राजपुरुषैः निरुध्य न्यायध्यक्षस्य पुरतः नीतः। कृषीवलः स्वीकायां धेनुमविन्दत आनन्दितः च अभवत्। सर्वे जनाः कृषकस्य चातुर्यं प्राशंसन्।31. अनुच्छेदेऽस्मिन् ‘गौः’ इति पदस्य कृते किं पदं प्रयुक्तम्?
[/su_note]
◉ धेनुः
◉ रासभी
◉ घोटकः
◉ महिषी
[su_spoiler title=”Answer”] धेनुः [/su_spoiler]
[su_note]32. सर्वे जनाः कृषकस्य किं प्राशंसन्?[/su_note]
◉ स्वरूपम्
◉ गोत्रम्
◉ धनम्
◉ चातुर्यम्
[su_spoiler title=”Answer”] चातुर्यम्[/su_spoiler]
[su_note]33. “मोहमापादिता ते दृष्टिः” इति कः अवदत्?[/su_note]
◉ आपणिकः
◉ पन्था
◉ कृषीबलः
◉ मिथ्यास्वामी
[su_spoiler title=”Answer”] [/su_spoiler]
[su_note]34. धेनोः नाम किम् आसीत्?[/su_note]
◉ कपिला
◉ प्रियंवदा
◉ नन्दिनी
◉ शंखिनी
[su_spoiler title=”Answer”] कपिला[/su_spoiler]
[su_note]35. “कतरेण नेत्रेण काणा इयम्’ इति कोऽवदत्?[/su_note]
◉ वृक्षस्वामी
◉ वस्त्रस्वामी
◉ मिथ्यास्वामी
◉ कृषीवलः
[su_spoiler title=”Answer”] कृषीवलः[/su_spoiler]
[su_note]36. ‘प्राह’ इति पदस्य पर्यायो भवति[/su_note]
◉ अगच्छत्
◉ अधावत्
◉ अवदत्
◉ अशृणोत्
[su_spoiler title=”Answer”] अवदत्[/su_spoiler]
[su_note]37. ‘कृषक’ इति पदस्य पर्यायो भवति[/su_note]
◉ लिपिकः
◉ धनपालः
◉ द्वारपालः
◉ कृषीवलः
[su_spoiler title=”Answer”] कृषीवलः [/su_spoiler]
[su_note]सूचनाः अधोलिखितानां प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत
38. अधस्तनेषु कस्मिन् विधौ मातृभाषायाः व्यवधानं न अपेक्ष्यते?[/su_note]
◉ द्विभाषीयविधौ (Bilingual Method)
◉ श्रव्यभाषीयविधौ (Audio-Lingual Method)
◉ स्वाभाविकविधौ (Natural Method)
◉ प्रत्यक्षविधौ (Direct Method)
[su_spoiler title=”Answer”] प्रत्यक्षविधौ (Direct Method) [/su_spoiler]
[su_note]
39. अधस्तनेषु कतमः साहित्यस्य उदाहरणम्?
[/su_note]
◉ मिष्टान्नस्य निर्माणविधिः
◉ निबन्धः
◉ शब्दकोषः
◉ वृत्तपत्रे विज्ञापनम्
[su_spoiler title=”Answer”] निबन्धः[/su_spoiler]
[su_note]
40. सम्भाषणकौशलस्य विकासार्थं योग्यतमः मार्गः अस्ति छात्रेभ्यः
[/su_note]
◉ प्रकृतजीवनपरिस्थितिम् अधिकृत्य कथयितुम् अवसरप्रदानम्
◉ भाषायाः संरचनायाः अनुशीलनं कर्तुम् अवसरप्रदानम्
◉ आदर्शश्रव्यसामग्ग्राः श्रवणार्थम् अवसरप्रदानम्
◉ जटिलग्रन्थानां पठनार्थम् अवसरप्रदानम्
[su_spoiler title=”Answer”] प्रकृतजीवनपरिस्थितिम् अधिकृत्य कथयितुम् अवसरप्रदानम् [/su_spoiler]
[su_note]
41. लेखनस्य प्रथमसोपानम् अस्ति
[/su_note]
◉ मार्गदर्शितलेखनम् (Guided Writing)
◉ प्रगतलेखनम् (Advanced Writing)
◉ मुक्तलेखनम् (Free Writing)
◉ संयतलेखनम् (Controlled Writing)
[su_spoiler title=”Answer”] मार्गदर्शितलेखनम् (Guided Writing)[/su_spoiler]
[su_note]
42. उद्गामीसाक्षरतायाम् (Emergent Literacy) अधस्तनेषु कस्य क्रियाकलापस्य सन्निवेशः भवति?
[/su_note]
◉ वर्णमालायाः अक्षरलेखनम् (Writing Letters And Alphabet)
◉ पठनं कूटानुवाद; च (Reading And Decoding)
◉ लेखनीघर्षणम् अस्पष्टशब्दोच्चारणं च (Scribbling And Blabbering)
◉ गायनं नृत्यच्ञ (Singing And Dancing)
[su_spoiler title=”Answer”] लेखनीघर्षणम् अस्पष्टशब्दोच्चारणं च (Scribbling And Blabbering) [/su_spoiler]
[su_note]
43. कवितापठनस्य उद्देश्म् अस्ति
[/su_note]
◉ अनुभूतीनां विचाराणां च बोधः
◉ धाराप्रवाहस्य शुद्धतायाः च विकासः
◉ कवितायाः कण्ठस्थीकरणम्
◉ उच्चारणविकासः
[su_spoiler title=”Answer”] अनुभूतीनां विचाराणां च बोधः[/su_spoiler]
[su_note]
44. कथाश्रवणविधिः शिक्षार्थिनां कृते सहायंक भवति
[/su_note]
◉ श्रवणमात्रस्य कौशलस्य विकासार्थम्
◉ सम्भाषणमात्रस्य कौशलस्य विकासार्थम्
◉ श्रवणसम्भाषणकौशलविकासार्थम्
◉ पठनलेखनकौशलविकासार्थम्
[su_spoiler title=”Answer”] श्रवणसम्भाषणकौशलविकासार्थम्[/su_spoiler]
[su_note]
45. प्रथमकक्षायाः छात्राणां कृते भाषायाः पठनार्थम् अधोलिखितेषु कतमः विषयः योग्यतमः भवेत्?
[/su_note]
◉ मम विश्वः
◉ परिवहनम्
◉ मम देशः
◉ मम परिवारः
[su_spoiler title=”Answer”] मम परिवारः [/su_spoiler]
[su_note]
46. शिक्षाधिकाराधिनियमानुसारं (RTE) प्रत्येकं छात्रस्य अधिकारः अस्ति
[/su_note]
◉ राजकीयभाषामाध्यमेन अधिगन्तुम्
◉ आधुनिकभारतीयभाषामाध्यमेन अधिगन्तुम्
◉ मातृभाषामाध्यमेन अधिगन्तुम्
◉ आङ्गलभाषाध्यमेन अधिगन्तुम्
[su_spoiler title=”Answer”] मातृभाषामाध्यमेन अधिगन्तुम् [/su_spoiler]
[su_note]
47. भाषाधिग्रहणसमये धाराप्रवाहिता नाम
[/su_note]
◉ सहजतया सम्भाषणं पठनं लेखनं च
◉ शुद्धतया लेखनम्
◉ व्याकरणे दक्षता
◉ सम्यक् उच्चारणक्षमता
[su_spoiler title=”Answer”] सम्यक् उच्चारणक्षमता [/su_spoiler]
[su_note]
48. सततसमग्रमूल्याङ्कने सङ्केतयति
[/su_note]
◉ अन्तिममूल्याङ्कनम्
◉ विद्वत्तायाः तत्सम्बन्धितः चं
◉ सर्वविद्याविषयाणां मूल्याङ्कनम्
◉ सहपाठ्यक्रियाकलापानां मूल्याङ्कनम्
[su_spoiler title=”Answer”] विद्वत्तायाः तत्सम्बन्धितः चं[/su_spoiler]
[su_note]
49. चतुर्थकक्षायाः सोमया नाम बाला पठनसमये एकम् अपरिचिंत शब्दं पश्यति। सा
[/su_note]
◉ सन्दर्भानुसारम् अर्थस्य अनुमानं कुर्यात्
◉ शब्दस्यार्थ कच्ञित् पृच्छेत्
◉ शब्दं दुर्लक्षित कुर्यात्
◉ शब्दकोषे शब्दस्यार्थं पश्येत्
[su_spoiler title=”Answer”] सन्दर्भानुसारम् अर्थस्य अनुमानं कुर्यात् [/su_spoiler]
[su_note]
50. वर्णमालायाः अक्षराणां लेखनार्थं विद्यार्थिनः समर्थान् कर्तुं शिक्षकः तान् कथयति कथम् अक्षरनिर्माणार्थं रेखाङ्कनं करणीय वक्रं करणीय पाशं करणीयम् इति। एतद् अस्ति
[/su_note]
◉ लेखनयन्त्रम् (Mechanics Of Writing)
◉ लेखनप्रक्रिया (Process Of Writing)
◉ प्रवाहीलेखनम् (Cursive Writing)
◉ रेखालेखनम् (Stroke Writing)
[su_spoiler title=”Answer”] लेखनप्रक्रिया (Process Of Writing) [/su_spoiler]
[su_note]
51. यः शिक्षकः छात्रान् अधिकं बाल साहित्यं पठितुं प्रेरयति सः छात्राणां
[/su_note]
◉ सम्भाषणकौशलं वर्धयितुम् इच्छति
◉ श्रवणकौशलं वर्धयितुम् इच्छति
◉ लेखनकौशलं वर्धयितुम् इच्छति
◉ पठनकौशलं वर्धयितुम् इच्छति
[su_spoiler title=”Answer”] पठनकौशलं वर्धयितुम् इच्छति [/su_spoiler]
[su_note]
52. योग्यावसरप्रदानेन अनेकभाषाणाम् अधिगमः
[/su_note]
◉ छात्राणां कृते कष्टप्रदः न भविष्यति
◉ स्वाभाविकः भवति
◉ छात्राणां कृते भारः भविष्यति
◉ छात्राणां कृते कष्टप्रदः भविष्यति
[su_spoiler title=”Answer”] छात्राणां कृते कष्टप्रदः न भविष्यति [/su_spoiler]
[su_note]सूचनाः अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
अस्मांक संरक्षणाय सम्बर्धनाय च प्रकृतिः सदैव यत्रं करोति। सागराः, पर्वताः, वनानि, नद्यः, सरांसि सर्वाणि जगतः सुखानि सम्वर्धयन्ति। प्रसन्नाः तरवः वायोः विकारान् स्वयं पिबन्ति अस्मभ्यं स्वास्थ्यप्रदं वायुमण्डलं च प्रयच्छन्ति। पत्राणि, पुष्पाणि, वनानि, फलानि प्रदाय इमे अस्मान् बहु उपकुर्वन्ति। वातावरणस्य वायोश्च परिशोधनं कुर्वन्ति। वनानि एव वन्यप्राणिनः सागरजन्तवथापि पर्यावरणस्य सन्तुलनं स्थापयन्तिः
सम्प्रति तैलचालितानि यानानि यन्त्राणि च स्वकीयैः धूमैः स्वस्थं वायुमण्डलं भृशं प्रदूषयन्ति। वायुप्रदूषणं प्रतिक्षणं वर्धते। शिलाखण्डान् विदार्य वनानि च विच्छिद्य निर्मितुषु गिरिमार्गेषु यानामि धावन्ति। अस्त्राणां परीक्षणैः समुद्रस्य वातावरण प्रदूष्यते।
यथा-यथा प्रवर्धते प्रस्तरमयाणां मार्गाणां संख्या तथा-तथा वर्धन्ते प्रदूषणप्रस्तरकाणि यानानि यन्त्राणि च। एतद् विपरीतं तथा न वर्धन्ते वायुमण्डलस्य परिशोधन-साधनानि। स्वल्पतराय लाभाय लोभात अज्ञानात् वा जनाः स्वकीयं बहु विनाशयन्ति। वन्यप्राणिनः मनोविनोदाय हिंसन्ति। कतिपयपणानां लोभेन वनानि छिन्दन्ति । प्रदूषितैः जलैः गङ्गा-कावेरी प्रभूति नदीनां नीराणि परिदूषयन्ति। समुद्रप्राणिनां हिंसन यत्रेन कुर्वन्ति। अनेन जले स्थले गगने च सर्वत्रा प्रदूषणं वर्धते। अतः वनानि यत्रतः रक्षणीयानि। ग्रामेषु नगरेषु स्थाने स्थाने उद्यानानि समारोपरणीयानि। शाकवाटिकानां सम्वर्धनं करणीयम्॥ वन्यप्राणिनां संरक्षणाय अरण्यानां संख्या वर्धनीया। वृक्षाणाम् उच्छेदः रोधनीयः, येन सागराः निर्बाधं समुल्लसन्तु गगनमण्डलं स्वच्छं भवत्। पर्वतेषु ओषधयः नदीस्रोतांसि च सम्वर्धन्ताम्।
53. ‘सदैव’ इति अस्य पर्यायो भवति[/su_note]
◉ ह्यः
◉ रात्रिः
◉ अधुना
◉ सर्वदा
[su_spoiler title=”Answer”] सर्वदा[/su_spoiler]
[su_note]
54. जनाः वन्यप्राणिनः किमर्थं हिंसन्ति?
[/su_note]
◉ शिक्षार्जनाय
◉ सेतुहेतवे
◉ जनकल्याणाय
◉ मनोविनोदाय
[su_spoiler title=”Answer”] मनोविनोदाय [/su_spoiler]
[su_note]
55. ‘स्वस्थम्’ इति पदस्य विलोमपदं भवति
[/su_note]
◉ आराधनम्
◉ अध्ययनम्
◉ अस्वस्थम्
◉ आस्वाद्यम्
[su_spoiler title=”Answer”] अस्वस्थम् [/su_spoiler]
[su_note]
56. सामान्यतया प्रकृतिः जगतः किं वर्धयति?
[/su_note]
◉ सुखम्
◉ दुःखम्
◉ खेदम्
◉ कष्टम्
[su_spoiler title=”Answer”] सुखम्[/su_spoiler]
[su_note]
57. अनुच्छेदेऽस्मिन् कः संकल्पः?
[/su_note]
◉ वृक्षाणां विनाशः करणीयः
◉ वृक्षाणां कृते किमपि न करणीयः
◉ वृक्षाणाम् उच्छेदः सर्वदा करणीयः
◉ वृक्षाणाम् उच्छेदः रोधनीयः
[su_spoiler title=”Answer”] वृक्षाणाम् उच्छेदः रोधनीयः [/su_spoiler]
[su_note]
58. प्रसन्नाः तरवः किं दूरीकुर्वन्ति?
[/su_note]
◉ पत्राणां सौन्दर्यम्
◉ फलानां माधुर्यम्
◉ वायोः विकारान्
◉ वृक्षस्य पत्राणि
[su_spoiler title=”Answer”] वायोः विकारान्[/su_spoiler]
[su_note]
59. पर्वतेषु केषां वृद्धिः भवेत्?
[/su_note]
◉ यानानाम्
◉ प्रदूषणानाम्
◉ ओषधीनाम्
◉ यन्त्राणाम्
[su_spoiler title=”Answer”] ओषधीनाम् [/su_spoiler]
[su_note]
60. तैलचालितयानानि वायुमण्डलं कथं दूषयन्ति?
[/su_note]
◉ स्थितिभिः
◉ यन्त्रैः
◉ धूमैः
◉ गतिभिः
[su_spoiler title=”Answer”] धूमैः[/su_spoiler]
इस पोस्ट में आपको Uptet Sanskrit Notes Pdf Download Sanskrit Notes Pdf In Hindi Uptet Sanskrit Notes Pdf In Hindi Sanskrit Vyakaran Free Online Mock Test Series Sample Paper 2018 संस्कृत नोट्स पीडीऍफ़ संस्कृत का मॉडल पेपर संस्कृत साहित्य के महत्वपूर्ण प्रश्न यूपीटीईटी के लिए हिंदी में संस्कृत नोट्स UPTET CTET, HTET, Sanskrit Notes Pdf Download से संबंधित फ्री ऑनलाइन टेस्ट दिया गया है. तो इन्हें ध्यानपूर्वक पढ़ें. अगर इनके बारे में आपका कोई भी सवाल या सुझाव हो तो नीचे कमेंट करके पूछो और अगर आपको यह टेस्ट फायदेमंद लगे तो अपने दोस्तों के साथ शेयर जरूर करें.





